mrityu mahotsav

 मृत्यु -  मार्गे   प्रवृत्तस्य    वीतरागो  ददातु मे।

समाधि-बोधि-पाथेयं यावन्मुक्ति-पुरी पुर:॥१॥

 

कृमि - जाल - शताकीर्णेजर्जरे देह - पञ्जरे।

भज्यमाने    भेतव्यं,  यतस्त्वं ज्ञान-विग्रह:॥२॥

 

ज्ञानिन् भयं   भवेत्कस्मात्प्राप्ते  मृत्यु-महोत्सवे।

स्वरूपस्थ: पुरं यातिदेही देहान्तर-स्थितिम्॥ ३॥

 

सुदत्तं  प्राप्यते  यस्माद्,  दृश्यते  पूर्व-सत्तमै:।

भुज्यते-स्वर्भवं सौख्यं मृत्युभीति: कुत: सताम्॥४॥

 

आगर्भाद्दु:ख - सन्तप्त: प्रक्षिप्तो देह-पिञ्जरे।

नात्मा विमुच्यतेऽन्येन मृत्यु-भूमिपतिं विना॥ ५॥

 

सर्व - दु:खं - प्रदं पिण्डं  दूरीकृत्यात्मदर्शिभि:।

मृत्यु-मित्र-प्रसादेन  प्राप्यन्ते  सुख-सम्पद:॥ ६॥

 

मृत्यु-कल्पद्रुमे    प्राप्ते   येनात्मार्थो    साधित:।

निमग्नो जन्म-जम्बाले स पश्चात् किं करिष्यति॥ ७॥

 

जीर्णं   देहादिकं   सर्वं   नूतनं   जायते  यत:।

स मृत्यु: किं न मोदाय सतां सतोत्थितिर्यथा॥ ८॥

 

सुखं दु:खं  सदा  वेत्ति देहस्थश्च  स्वयं व्रजेत्।

मृत्यु-भीतिस्तदा कस्य  जायते  परमार्थत:॥ ९॥

 

संसारासक्त-चित्तानां    मृत्युर्भीत्यै    भवेन्नृणाम्।

मोदायते पुन: सोऽपि ज्ञान-वैराग्यवासिनाम्॥ १०॥

 

पुराधीशो  यदा  याति  सुकृत्यस्य  बुभुत्सया।

तदासौ वार्यते केन प्रपञ्चै: पाञ्च-भौतिकै:॥ ११॥

 

मृत्यु-काले सतां दु:खं यद् भवेद् व्याधि-संभवम्।

देह-मोह-विनाशाय मन्ये शिव-सुखाय च॥ १२॥

 

ज्ञानिनोऽमृत -  सङ्गाय   मृत्युस्तापकरोऽपि   सन्।

आमकुम्भस्य लोकेऽस्मिन् भवेत्पाकविधिर्यथा॥ १३॥

 

यत्फलं  प्राप्यते   सद्भिव्र्रतायास - विडम्बनात्।

तत्फलं सुखसाध्यं स्यान्मृत्यु-काले समाधिना॥ १४॥

 

अनार्त: शान्तिमान्  मत्र्यो    तिर्यग्नापि नारक:।

धम्र्य-ध्यानी पुरो मत्र्योऽनशनी त्वमरेश्वर:॥ १५॥

 

तप्तस्य  तपसश्चापि   पालितस्य   व्रतस्य च।

पठितस्य श्रुतस्यापि फलं मृत्यु: समाधिना॥ १६॥

 

अतिपरिचितेष्ववज्ञा नवे भवेत्प्रीतिरिति हि जन-वाद:।

चिरंतर-शरीर-नाशे नवतर-लाभे च किं भीरु:॥१७॥

 

स्वर्गादेत्य पवित्र-निर्मल - कुले संस्मर्यमाणा जनै-

र्दत्वा भक्ति-विधायिनां बहुविधं वाञ्छानुरूपं धनम्!

भुक्त्वा भोगमहर्निशं पर-कृतं स्थित्वा क्षणं मण्डले,

पात्रावेश-विसर्जनामिव मृतिं सन्तो लभन्ते स्वत:॥ १८॥

01